वैमानिकदेवों के नगर के बाहर उद्यान में चैत्यवृक्ष (त्रिलोकसार से)
वैमानिकदेवों के नगर के बाहर उद्यान में चैत्यवृक्ष (त्रिलोकसार से) साम्प्रतमिन्द्राणां नगरस्थानं विस्तारं च गाथाद्वयेनाह- सोहम्मादिचउक्के जुम्मचउक्के य सेसकप्पे य। सगदेविजुदिंदाणं णयराणि हवंति णवयपदे१।।४८८।। सौधर्मादिचतुष्के युग्मचतुष्के च शेषकल्पे च। स्वकदेवीयुतेन्द्राणां नगराणि भवन्ति नवकपदे।।४८८।। सोहम्मादि। सौधर्मादिचतुष्के ब्रह्मादियुग्मचतुष्के आनतादिशेषकल्पे च आनतादीनां नगरेषु प्रत्येकं िंवशतिसहस्रयोजनव्याससाधारणात्कल्पचतुष्टयमेकं स्थलं कृतं इति नवसु स्थानेषु स्वस्वदेवीयुतेन्द्राणां नगराणि भवन्ति।।४८८।। कथमिति चेत्- सुरपुरवहिं असोयं सत्तच्छदचंपचूदवणखण्डा।…