01. मंगलाष्टक स्तोत्रम्
मंगलाष्टक -1 श्रीमन्नम्रसुरासुरेन्द्रमुकुटप्रद्योतरत्नप्रभा , भास्वत्पादनखेन्दव: प्रवचनांभोधींदव: स्थायिन:। ये सर्वे जिनसिद्धसूर्यनुगतास्ते पाठका: साधव:, स्तुत्या योगिजनैश्च पंचगुरव: कुर्वन्तु मे (ते) मंगलम्।।१।। सम्यग्दर्शन बोधवृत्तममलं रत्नत्रयं पावनं, मुक्तिश्रीनगराधिनाथजिनपत्युक्तोपवर्गप्रद: । धर्म: सूक्तिसुधाश्च चैत्यमखिलं चैत्यालयं श्र्यालयं, प्रोत्तंक च त्रिविधं चतुर्विधममी कुर्वन्तु मे (ते) मंगलम्।।२।। नाभेयादिजिनाधिपास्त्रिभुवनख्याताश्चतुर्विंशति:, श्रीमंतो भरतेश्वरप्रभृतयो ये चक्रिणो द्वादश। ये विष्णु-प्रतिविष्णु-लांगलधरा: सप्तोत्तराविंशति— स्त्रैकाल्ये प्रथितास्त्रिषष्टिपुरुषा: कुर्वन्तु मे (ते) मंगलम्।।३।। देव्योऽष्टौ च…