सुदं मे आउस्संतो ! (मुनिधर्म) (प्रतिक्रमण ग्रंथत्रयी ग्रंथ से)
सुदं मे आउस्संतो ! (मुनिधर्म) (प्रतिक्रमण ग्रंथत्रयी ग्रंथ से) (संस्कृत टीका-श्री प्रभाचन्द्राचार्य कृत) सुधम्मे इत्यादि। श्रीगौतमस्वामी—इष्टोपयोगसंबोधनेन भव्यान्संबोधयन् सुधम्मे इत्याद्याह१।। आउस्संतो।। आयुष्मन्तो भव्या मे मया सुदं श्रुतम्। इह भरतक्षेत्रे खलु स्फुटं भयवदा भगवताऽिंहसादीनि व्रतानि सम्मं धम्मोति सम्यग्धर्म इति—उवदेसिदाणि उपदिष्टानि। तच्छ्रवणं च मम तत्स्वरूपप्रतिपादकाद्भगवतीयदिव्यध्वने: सकाशात्संजातम्। आयुष्मन्त इति च संबोधनं सर्वेषामिष्टम्। तद्धर्मत्वप्ररूपण उपयोगे च व्रतानां हि धर्मत्वप्ररूपणमायुष्मतामेव सफलम्,…