10.15 अन्त्यमंगल
अन्त्यमंगल तीर्थंकरं महावीरं, नौमि भक्त्या ह्यनन्तश:। यस्य कृपाप्रसादेन, प्राप्स्येऽहं ज्ञानकेवलम्।।१।। ऊर्जकृष्णेऽन्तिमे प्रात:, उषावेला महीयसी। मोक्षधाम प्रभु:प्राप, तत्कल्याणं नमाम्यहम्।।२।। अस्मिन्नेव दिने सायं, श्रीगौतमगणी गुरु:। पूर्णज्ञानश्रियं प्राप्नोत् , नमाम्येनं जगद्गुरु:।।३।। श्रीगौतमगणेशस्य, वाण्या: अमृतवर्षिणी। टीकेयं पूर्यते भक्त्या, गणाधीशप्रसादत:।।४।। १शून्यदिग्वाणयुग्मांके, वीरसंवत्सरे शुभे। श्रीगौतमगणाधीश-वाणीटीकामृतं दिशेत्।।५।। मह्यमारोग्यलाभं च, कुर्यात् सर्वार्थसिद्धिदाम्। केवलज्ञानमत्यामा, दद्यात् स्वात्मश्रियं धु्रवाम्।।६।। मंगलं भगवान् वीरो, मंगलं गौतमो गणी। मंगमं…