तीस चौबीसी स्तुति
तीस चौबीसी स्तुति……. सििंद्ध प्राप्ताश्च प्राप्स्यंति, भूता सन्तश्च भाविन:। भरतैरावतोद्भूतास्तीर्थंकरा अवंतु मां।।१।। जंबूद्वीपेऽत्र विख्याते, मध्यलोकस्य मध्यगे। भरतो दक्षिणे भागे, उदीच्यैरावतो मत:।।२।। पूर्वस्मिन् धातकीद्वीपेऽपरधात्र्यामपि त्विमौ। भरतैरावतौ द्वौ द्वौ, दक्षिणोत्तर-भागिनौ।।३।। पूर्वार्धपुष्करेप्येवं, पश्चिमार्धे तथेदृशौ। भरतैरावते क्षेत्रे, अपागुदग्दिशोश्च ते।।४।। पंच भरतक्षेत्राणि, पंचैवैरावतान्यपि। दशैषामार्यखंडेषु, षट्कालपरिवर्तनं।।५।। चतुर्थेऽप्यागते काले चतुा\वशतयो जिना:। तीर्थेश्वरा: भवंतीह, धर्मतीर्थप्रवर्तका:।।६।। भूतकाले भवा एते, वर्तमानेऽप्यनागते। भवंति च भविष्यंति, तेभ्यो…