नगरादि का प्रमाण आत्मांगुल से (राजवार्तिक ग्रंथ से)
नगरादि का प्रमाण आत्मांगुल से (राजवार्तिक ग्रंथ से) उपमाप्रमाणमष्टविधं पल्यसागरसूचीप्रतरघनाङ्गुलजगच्छ्रेणीलोकप्रतर-लोकभेदात्।६। अन्तादिमध्यहीन: अविभागोऽतीन्द्रिय: एकरसवर्णगन्ध: द्विस्पर्श: परमाणु:। अनन्तानन्तपरमाणु संघातपरिमाणादाविर्भूता उत्संज्ञा संज्ञैका। अष्टा-वुत्संज्ञासंज्ञासंहता: संज्ञासंज्ञैका। अष्टौ संज्ञासंज्ञा एकस्त्रुटिरेणु:। अष्टौ त्रुटिरेणव: संहता: एकस्त्रसरेणु:। अष्टौ त्रसरेणव: संहता: एको रथरेणु:। अष्टौ रथरेणव: संहता: एका देवकुरूत्तरकुरुमनुजकेशाग्रकोटी भवति। ता अष्टौ समुदिता एका रम्यकहरिवर्षमनुजकेशाग्रकोटी भवति। अष्टौ ता: संहता: हैरण्यवतहैमवत-मनुजकेशाग्रकोटी भवति। ता अष्टौ संपिण्डिता: भरतैरावतविदेहमनुज-केशाग्रकोटी भवति।…