भद्रशालवन के जिनमन्दिर
भद्रशालवन के जिनमन्दिर (सिद्धान्तसार दीपक से) अथ मेरोश्चतुर्दिक्षु भद्रशालवनस्थितान् । वर्णयामि मुदोत्कृष्टांश्चतुरः श्रीजिनालयान्।।६।। अद्रेःपूर्वादिशाभागे योजनैकशतायतः। पञ्चाशद् विस्तृतस्तुङ्गः पञ्चसप्ततियोजनैः।।७।। कोशद्वयावगाहश्च विचित्रमणिचित्रितः। अद्भुतः स्याज्जिनागारस्त्रैलोक्यतिलकाह्वयः।।८।। अस्य पूर्वप्रदेशेऽस्ति चोत्तरे दक्षिणे महत् । एवैâकमूर्जितं द्वारं रत्नहेममयं परम् ।।९।। राजते नितरां द्वारं तयोः पूर्वस्थमादिमम्। अष्टयोजनविस्तीर्णं तुङ्गं षोडशयोजनैः।।१०।। दक्षिणोत्तरदिग्भागस्थे द्वे द्वारे परे शुभे। भातोऽष्टयोजनोत्तुंङ्गे चतुर्योजन विस्तरे।।११।। भवनस्यास्य चाभ्यन्तरे पूर्वे विस्फुरन्त्यलम् । विचित्रामणिमालाश्चाष्टसहस्राणिलम्बिताः।।१२।।…