विषापहार स्तोत्र
विषापहार स्तोत्र… -मन्दाक्रान्ता छंद- स्वात्मस्थित: सर्वगत: समस्त-व्यापारवेदी विनिवृत्तसंग:। प्रवृद्धकालोप्यजरो वरेण्य:, पायादपायात्पुरुष: पुराण:।।१।। परैरचिन्त्यं युगभारमेक:, स्तोतुं वहन्योगिभिरप्यशक्य:। स्तुत्योऽद्य मेऽसौ वृषभो न भानो:, किमप्रवेशे विशति प्रदीप:।।२।। तत्याज शव्रâ: शकनाभिमानं, नाहं त्यजामि स्तवनानुबंधम्। स्वल्पेन बोधेन ततोऽधिकार्थं, वातायनेनेव निरूपयामि।।३।। त्वं विश्वदृश्वा सकलैरदृश्यो, विद्वानशेषं निखलैरवेद्य:। वक्तुं कियान्कीदृश इत्यशक्य:, स्तुतिस्ततोऽशक्तिकथा तवास्तु।।४।। व्यापीडितं बालमिवात्मदोषै-रुल्लाघतां लोकमवापिपस्त्वम्। हिताहितान्वेषणमान्द्यभाज:, सर्वस्यजन्तोरसि बालवैद्य:।।५।। दाता न हर्ता दिवसं…