मंगलाष्टकम्
मंगलाष्टकम् श्रीमन्नम्र-सुरासुरेन्द्र-मुकुट-प्रद्योत-रत्नप्रभा- भास्वत्पाद-नखेन्दव: प्रवचनाऽम्भोधीन्दव: स्थायिन:। ये सर्वे जिन-सिद्ध-सूर्यनुगतास्ते पाठका: साधव: स्तुत्या योगिजनैश्च पञ्चगुरव: कुर्वन्तु ते (मे) मङ्गलम् ।।१।। सम्यग्दर्शन-बोध-वृत्तममलं रत्नत्रयं पावनं मुक्ति-श्री-नगराऽधिनाथ-जिनपत्युक्तोऽपवर्गप्रद:। धर्म: सूक्तिसुधा च चैत्यमखिलं चैत्यालयं श्र्यालयं प्रोक्तं च त्रिविधं चतुर्विधममी कुर्वन्तु ते (मे) मङ्गलम्।।२।। नाभेयादि-जिनाधिपास्त्रिभुवनख्याताश्चतुर्विंशति: श्रीमन्तो भरतेश्वरप्रभृतयो ये चक्रिणो द्वादश। ये विष्णु-प्रतिविष्णु-लाङ्गलधरा: सप्तोत्तरा विंशति- स्त्रैकाल्ये प्रथितास्त्रिषष्टिपुरुषा: कुर्वन्तु ते (मे) मङ्गलम्।।३।। देव्योऽष्टौ च जयादिका…