प्रशस्ति:
प्रशस्ति:– मंगलं पार्श्वनाथोऽर्हन्, पितरौ तस्य मंगलम्। मंगलं गर्भकल्याणं, वाराणसी च मंगलम्।।१।। शासनं वीरनाथस्य, वर्तते भुवि सांप्रतम्। गौतमादिमहर्षीणा-मनुवीचिपरंपरा।।२।। तस्यां च मूलसंघेऽस्मिन्, कुंदकुंदान्वयो महान्। बलात्कारगण: ख्यात:, शारदागच्छ इत्यपि।।३।। एतस्यां मणिमालायां, प्रथमाचार्यविश्रुत:। श्रीशान्तिसागराख्योऽसौ, चारित्रचक्रभृद् महान्।।४।। तस्य पट्टाधिपोऽप्याद्य:, गुरु: श्रीवीरसागर:। यस्माज्ज्ञानमती जाता, ह्यल्पज्ञाहं किलार्यिका।।५।। नवत्रिपंचद्व्यंकेऽब्दे१, वैशाखेऽसितपक्षके। दीक्षाविधेर्द्वितीयायां-मनुवाद: प्रपूर्यते।।६।। अर्हन्मुद्रांकिता यावद्, यावत्संघश्चतुर्विध:। तावद् दीक्षाविधिर्ग्रंथो, दीक्षां भव्याय दीयताम्।।७।। यावन्मुक्तिर्न मे तावत्,…