रत्नकरण्डश्रावकाचार के प्रमाण
रत्नकरण्डश्रावकाचार के प्रमाण….. अधुना सामायिकगुणसम्पन्नत्वं श्रावकस्य प्ररूपयन्नाह- चतुरावर्त्तत्रितयश्चतु:प्रणाम: स्थितो यथाजात: । सामयिको द्विनिषद्यस्त्रियोगशुद्धस्त्रिसन्ध्यमभिवन्दी ।।१८।। सामयिक: समयेन प्राक्प्रतिपादितप्रकारेण चरतीति सामायिकगुणोपेत: । किंविशिष्ट:? चतुरावर्तत्रितय: चतुरो वारानावर्तत्रितयं यस्य । एकैकस्य हि कायोत्सर्गस्य विधाने ‘णमो अरहंताणस्य थोस्सामे’-श्चाद्यन्तयो: प्रत्येकमावर्तत्रितयमिति एकैकस्य हि कायोत्सर्गविधाने चत्वार आवर्ता तथा तदाद्यन्तयोरेवैकप्रणामकरणाच्चतु: प्रणाम: स्थित ऊर्ध्वं कायोत्सर्गोपेत: । यथाजातो बाह्याभ्यन्तरपरिग्रहचिन्ताव्यावृत्त:। द्विनिषद्यो द्वे निषद्ये उपवेशने यस्य । देववन्दनां…