मंगलाचरण
मंगलाचरण णमो अरिहंताणं, णमो सिद्धाणं णमो आइरियाणं। णमो उवज्झायाणं, णमो लोए सव्वसाहूणं।। श्रीमत्पवित्रमकलंकमनन्तकल्पं, स्वायंभुवं सकलमंगलमादितीर्थम्। नित्योत्सवं मणिमयं निलयं जिनानां, त्रैलोक्यभूषणमहं शरणं प्रपद्ये।।१।। श्रीमत्परमगंभीर – स्याद्वादामोघलाञ्छनं। जीयात्त्रैलोक्यनाथस्य शासनं जिनशासनम्।।२।। श्रीमुखालोकनादेव, श्रीमुखालोकनं भवेत्। आलोकनविहीनस्य, तत्सुखावाप्तय: कुत:।।३।। अद्याभवत्सफलता नयनद्वयस्य, देव! त्वदीय चरणाम्बुजवीक्षणेन। अद्य त्रिलोकतिलक! प्रतिभासते मे, संसारवारिधिरयं चुलुकप्रमाणम्।।४।। अद्य मे क्षालितं गात्रं, नेत्रे च विमलीकृते। स्नातोऽहं धर्मतीर्थेषु, जिनेन्द्र!…