मंगलाचरण
मंगलाचरण…. सर्वनाकीन्द्रवंदित – कल्याणपरंपरं देवं। प्रणिपत्य वर्द्धमानं श्रुतस्य वक्ष्येऽहमवतारम् ।।१।। यद्यप्यनाद्यनिधनं श्रुतं तथाप्यत्र तन्निभेदेन मया। कालाश्रयेण तस्योत्पत्तिविनाशौ प्रवक्ष्येते।।२।। भरतेऽस्मिन्नवसर्पिण्युत्सर्पिण्याह्व्यौ प्रवर्तेते। कालौ सदापि जीवोत्सेधायुर्ह्रासवृद्धिकरौ।।३।। एवैâकस्य पृथग्दशकोटीकोट्य: प्रमाणमुद्दिष्टं। वार्ध्युपमानावेतौ समाश्रितौ भवति कल्प इति।।४।। तत्रावसर्पिणीयं प्रवर्तमाना भवेत्समाऽस्याश्च। कालविभागा: प्रोक्ता: षडेव कालप्रभेदज्ञै:।।५।। सुषमसुषमाह्व्याद्या सुषमान्या सुषमदु:षमेत्यपरा। दुष्षमसुषमान्या दुष्षमाऽतिपूर्वा पराऽस्यैव।।६।। तत्र क्रमाच्चतस्रस्तिस्रो द्वे सागरोपमाख्यानाम्। कोटीकोट्यस्तिस¸णामाद्यानां भवति परिमाणम्।।७।। कोटीकोटीवर्षसहस्रैरेतैश्चतुर्दशभिरूना। त्रिगुणैरंभोधीनां परिमाणं भवति…