67. द्रौपदी को पंचभर्तारी मानने वालों के प्रति आचार्यदेव के वचन
द्रौपदी को पंचभर्तारी मानने वालों के प्रति आचार्यदेव के वचन स्नुषाबुद्धिरभूत्तस्यां ज्येष्ठयोरर्जुनस्त्रियाम्। द्रौपद्यां यमलस्यापि मातरीवानुवर्तनम्।।१५०।। तस्याः श्वसुरबुद्धिस्तु पाण्डाविव तयोरभूत। अर्जुनप्रेमसंरुद्धमौचित्यं देवरद्वये।।१५१।। अत्यन्तशुद्धवृत्तेषु येऽभ्याख्यानपरायणाः। तेषां तत्प्रभवं पापं को निवारयितुं क्षमः।।१५२।। सद्भूतस्यापि दोषस्य परकीयस्य भाषणम्। पापहेतुरमोघः स्यादसद्भूतस्य किं पुनः।।१५३।। प्राकृतानामपि प्रीत्या समानधनता धने। न स्त्रीषु त्रिषु लोकेषु प्रसिद्धनां किमुच्यते ।।१५४।। महापुरुषकोटीस्थकूटदोषविभाषिणाम्। असतां कथमायाति न जिह्वा शतखण्डताम।।१५५।। वक्ता…