63. हरिवंश पुराण में पाँच अणुव्रत, तीन गुणव्रत और चार शिक्षाव्रतों में ही सल्लेखना को कहा है
हरिवंश पुराण में पाँच अणुव्रत, तीन गुणव्रत और चार शिक्षाव्रतों में ही सल्लेखना को कहा है पञ्चधाणुव्रतं प्रोत्तं त्रिविधं च गुणव्रतम्। शिक्षाव्रतं चतुर्भेदं धर्मोऽयं गृहिणां स्मृतः।।४५।। हिंसादेर्देशतो मुक्तिरणुव्रतमुदीरितम्। दिग्देशानर्थदण्डेभ्यो विरतिश्च गुणव्रतम्।।४६।। सामायिकं त्रिसंध्यं तु प्रोषधातिथिपूजनम्। आयुरन्ते च सल्लेखः शिक्षाव्रतमितीरितम्।।४७।। मांसमद्यमधुद्यूतक्षीरिवृक्षफलोज्झनम्। वेश्यावधूरतित्याग इत्यादिनियमो मत:।।४८।। इदमेवेति तत्त्वार्थश्रद्धानं ज्ञानदर्शनम्। शज्रकाङ्क्षाजुगुप्सान्यमतशंसास्तवोज्झनम्।।४९।। तथोपगूहनं मार्गभ्रंशिनां स्थितियोजनम्। हेतवो दृष्टिसंशुद्धे वात्सल्यं च प्रभावना।।५०।।…