04. द्वादश तप (मूलाचार ग्रन्थ से)
द्वादशतप (मूलाचार ग्रन्थ से) दुविहा य तवाचारो बाहिर अब्भंतरो मुणेयव्वो। एक्कक्को विय छद्धा जधाकमं तं परूवेमो।।३४५।। आचार वृत्तिः – द्विप्रकारस्तप आचारस्तपोऽनुष्ठानं। बाह्यो बाह्यजनप्रकटः। अभ्यन्तरोऽभ्यन्तर-जनप्रकटः।एकैकोऽपि च बाह्याभ्यन्तरश्चैकैकः षोढा षड्प्रकारःयथाक्रमं क्रममनुल्लंघ्य प्ररूपयामि कथयिष्यामीति।।३४५।। बाह्यं षड्भेदं नामोद्देशेन निरूपयन्नाह— अणसण अवमोदरियं रसपरिचाओ य वुत्तिपरिसंखा। कायस्स वि परितावो विवित्तसयणासणं छट्ठं।।३४६।। आचार वृत्तिः –अनशनं चतुर्विधाहारपरित्यागः। अवमौदर्यमतृप्तिभोजनं। रसानां परित्यागो रसपरित्यागःस्वाभिलषितस्निग्धमधुराम्लकटुकादिरसपरिहारः। वृत्तेः परिसंख्या…