गतिमार्गणा से कषायमार्गणा तक बंधक -अबंधको का निरूपण
गतिमार्गणा से कषायमार्गणा तक बंधक-अबंधको का निरूपण अथ बन्धक सत्त्वप्ररूपणा मंगलाचरणम् सिद्धान्नत्वा जगत्पूज्यान्, वासुपूज्यं जिनं पुनः। सर्वाश्चूलिगिरिस्थाश्च, नूयन्ते मूर्तयोऽधुना।।१।। देवीं सरस्वतीं स्तुत्वा, सा हृदयेऽवतार्यते। यस्याः कृपाप्रसादेना-भीप्सितार्थाः फलन्ति नः।।२।। श्रीधरसेनसूरीन्द्रः, पुष्पदन्तो मुनिस्तथा। श्रीभूतबलिसूरिश्च, स्तूयंते श्रद्धयाऽनिशम्।।३।। क्षेत्रेऽत्र खानियानाम्नि, समाधिं प्राप्य स्वर्गतः। श्रीशांतिसन्धिुसूरेर्यः, प्रथम: पट्टाधिपो भुवि।।४।। श्रीवीरसागराचार्यो, वंद्यतेऽसौ मया मुदा । येन ज्ञानमतिं कृत्वा मां जगत्तारकोऽभवत्।।५।। जीयादाद्यो गुरुर्लोकेऽप्याचार्यो…