विजयमेरु आदि चार मेरु का वर्णन
विजयमेरु आदि चार मेरु का वर्णन साम्प्रतमितरमन्दराणां व्यवधाननिरूपणाव्याजेनोत्सेधं कथयति— पणसय पणसयसहियं पणवण्णसहस्सयं सहस्साणं। अट्ठावीसिदराणं सहस्सगाढं तु मेरूणं१।।६०९।। पञ्चशतं पञ्चशतसहितं पञ्चपञ्चाशतसहस्रकं सहस्राणां। अष्टाविंशतिरितरेषां सहस्रगाधस्तु मेरूणाम्।।६०९।। पणसय। पञ्चशतयोजनानि ५०० पञ्चशतसहितं पञ्चपञ्चाशत्सहस्रयोजनानि ५५५०० अष्टाविंशति-सहस्रयोजनानि २८००० इतरेषां मेरूणां वनाद्वनान्तराणि पञ्चानां मेरूणां सहस्रयोजनावगाधो १००० ज्ञातव्यः।।६०९।। अथ तेषां वनानां विस्तारं निरूपयति— बावीसं च सहस्सा पणपणछक्कोणपणसयं वासं। पढमवणं वज्जित्ता सव्वणगाणं वणाणि सरिसाणि।।६१०।।…