04. भवदेवमुने: व्रतेषु स्थिरीकरणं
भवदेवमुने: व्रतेषु स्थिरीकरणं (भवदेव मुनि का व्रत में स्थिरीकरण) संस्कृत भाषा में- कतिपयमासानंतरं संघसहितो सौधर्मो गणी विहरन् सन् तत्रैव वर्धमाननगरे समागत्य नगरात् बहि: उद्याने स्थित:। केचित् मुनयो ध्याने स्थित्वा तपश्चर्यां कुर्वन्त आसन्, केचित् मुनय: स्वाध्याये निरता बभूवु:। तदानीं भवदेवमुनि: आहारछद्मात् नगरे प्रविष्ट: मार्गे गच्छन् सन् एकं उन्नतं जिनमंदिरमअपश्यत् तदा मंदिरस्यांत: प्रविश्य त्रि:प्रदक्षिणीकृत्य भक्तिभावेन जिनेन्द्रप्रतिमां अनंसीत्।…