सिद्ध पूजा
सिद्ध पूजा ऊध्र्वाधोरयुतं सबिन्दु सपरं ब्रह्म-स्वरावेष्टितं, वर्गापूरित-दिग्गताम्बुज-दलं तत्संधि-तत्त्वान्वितं। अंत: पत्र-तटेष्वनाहत-युतं ह्रींकार-संवेष्टितं। देवं ध्यायति य: स मुक्तिसुभगो वैरीभ-कण्ठी-रव:।।१।। ॐ ह्रीं श्रीसिद्धचक्राधिपते! सिद्धपरमेष्ठिन्! अत्र अवतर अवतर संवौषट् आह्वाननं। ॐ ह्रीं श्रीसिद्धचक्राधिपते! सिद्धपरमेष्ठिन्! अत्र तिष्ठ तिष्ठ ठ: ठ: स्थापनं। ॐ ह्रीं श्रीसिद्धचक्राधिपते! सिद्धपरमेष्ठिन्! अत्र मम सन्निहितो भव भव वषट् सन्निधीकरणं। …