5.01 पंचाचाराधिकार:
पंचाचाराधिकार: पंचाचाराधिकारप्रतिपादनार्थं नमस्कारमाह– तिहुयणमन्दरमहिदे तिलोगबुद्धे तिलोगमत्थत्थे।तेलोक्कविदिदवीरे तिविहेण य पणिविदे सिद्धे।।१९८।। तिहुयणमंदरमहिदे–मन्दरे मेरौ महिता: पूजिता: स्नापिता: मन्दरमहिता: त्रयाणां भुवनानां लोकानां समाहारस्त्रिभुवनं तेन मन्दरमहितास्त्रिभुवनमन्दरमहिता:। अथवा त्रिभुवनस्य मन्दरा प्रधाना: सौधर्मेन्द्रादयस्तैर्महितांस्त्रिभुवनमन्दरमहितान्।। तिलोगबुद्धे–त्रिलोकानां त्रिलोकैर्वा बुद्धा ज्ञातार: ज्ञाता वा त्रिलोकबुद्धास्तांस्त्रिलोकबुद्धान्। तिलोगमत्थत्थे–त्रिलोकस्य मस्तकं सिद्धिक्षेत्रं तस्मिंस्तिष्ठन्तीति त्रिलोकमस्तकस्थास्तांस्त्रिलोकमस्तकस्थान् सिद्धिक्षेत्रस्थान्। तेलोक्कविदिदवीरे–त्रिषु लोकेषु विदित: ख्यातो वीरो वीर्यं येषां, अथवा त्रिलोकानां विदिता: प्रख्यातास्ते च ते वीरा: शूराश्च...