01. सात सौ बीस तीर्थंकर विधान
सात सौ बीस तीर्थंकर विधान (लघु) तीस चौबीसी तीर्थंकर वंदना अनुष्टुप-छंद सिद्धिं प्राप्ताश्च प्राप्स्यंति, भूता सन्तश्च भाविनः। भरतैरावतोद्भूतास्तीर्थंकरा अवंतु मां।।१।। जंबूद्वीपेऽत्र विख्याते, मध्यलोकस्य मध्यगे। भरतो दक्षिणे भागे, उदीच्यैरावतो मतः।।२।। पूर्वस्मिन् धातकीद्वीपेऽपरधात्र्यामपि त्विमौ। भरतैरावतौ द्वौ द्वौ, दक्षिणोत्तर भागिनौ।।३।। पूर्वार्धपुष्करेप्येवं, पश्चिमार्धे तथेदृशौ। भरतैरावते क्षेत्रे, अपागुदग्दिगोश्च ते।।४।। पंच भरतक्षेत्राणि, पंचैवैरावतान्यपि। दशैषामार्यखंडेषु, षट्कालपरिवर्तनं।।५।। चतुर्थेऽप्यागते काले चतुर्विंशतयो जिनाः। तीर्थेश्वराः भवंतीह,…