श्री नवतीर्थंकर स्तुति:
श्री नवतीर्थंकर स्तुति: -अनुष्टुप् छंद- सिद्धान् सर्वान् नमस्कृत्य, सर्वसौख्यप्रदायकान्। नवग्रहस्य शान्त्यर्थं, नवतीर्थंकरान् स्तुवे।।१।। मुक्तिपद्मासुकांताय, पद्मप्रभ! नमोस्तु ते। आदित्यग्रहशान्त्यर्थं, निजलक्ष्म्यै नमो नम:।।२।। वागमृतकरैर्भव्य-पोषिणे जिनचंद्र! ते। नमो नमोऽस्तु चन्द्राय, सोमग्रहस्य शान्तये।।३।। वासुपूज्यो जगत्पूज्य:, पूज्यपूजातिदूरग:। १कुजग्रहस्य शांति: स्यात्, भवेत्तुभ्यं नमो नम:।।४।। कर्ममल्लभिदे तुभ्यं, मल्लिनाथ! नमो नम:। बुधग्रहस्य शान्त्यर्थं, भववल्लिभिदे नम:।।५।। वर्धमानो महावीरो-ऽतिवीरो सन्मतिर्जिन:। वीरनाथो नमस्तुभ्यं, गुरूग्रहस्य शान्तये।।६।। पुष्पदंतजिनेन्द्राय,…