मूलाचार ग्रन्थ के प्रमाण
मूलाचार ग्रन्थ के प्रमाण… सामायिक का विशेष अर्थ कहते हैं- जीविदमरणे लाभालाभे संजोयविप्पओगे य। बंधुरिसुहदुक्खादिसु समदा सामाइयं णाम।।२३।। आचारवृत्ति टीका- जीविदमरणे-जीवितमौदारिकवैक्रियिकादिदेहधारणं, मरणं मृत्यु: प्राणिप्राणवियोग-लक्षणं, जीवितं च मरणं च जीवितमरणे तयोर्जीवितमरणयो: । लाभालाभे- लाभोऽभिलषितप्राप्ति:, अलाभोऽभिलषितस्याप्राप्ति: लाभश्चालाभश्च लाभालाभौ तयोर्लाभालाभयोराहारोपकरणाादिषु प्राप्त्यप्राप्त्यो: । संजोयविप्पओगे य-संयोग- इष्टादिसन्निकर्ष:, विप्रयोग इष्टवियोग: संयोगश्च विप्रयोगश्च संयोगविप्रयोगौ तयो: संयोगविप्रयोगयो:, इष्टानिष्टसन्निकर्षासन्निकर्षयो:। बन्धूरिसुखदुक्खादिसु-बन्धुश्च अरिश्च सुखं च दुखं…