अनगारधर्मामृत के प्रमाण
अनगारधर्मामृत के प्रमाण सामायिकादित्रयस्य व्यवहारानुसारेण प्रयोगविधिं दर्शयति- सामायिकं णमो अरहंताणमिति प्रभृत्यथ स्तवनम् । थोस्सामीत्यादि जयति भगवानित्यादिवन्दनां युंज्यात् ।।५६।। युंज्यात् संयतो देशसंयतो वा प्रयोजयेत् । किं तत् ? सामायिकं सामायिकदण्डकम्। कीदृशम् ? णमो अरहंताणं इति प्रभृति । तथानन्तरं युञ्ज्यात् । किं तत् ? स्तवनं चतुविंशतिस्तवनं स्तवदण्डकम् । कीदृशम् ? थोस्सामि इत्यादि। अथ अनतंरं युञ्ज्यात्। काम् ?…