4.01 सामाचाराधिकार:
सामाचाराधिकार: एवं संक्षेपस्वरूपं प्रत्याख्यानमासन्नतममृत्योर्व्याख्याय यस्य पुन: सत्यायुषि निरतिचारं मूलगुणा निर्वहंति तस्य कथं प्रवृत्तिरिति पृष्टे तदर्थं चतुर्थमधिकारं सामाचाराख्यं नमस्कारपूर्वकमाह– तेलोक्कपूयणीए अरहंते वंदिऊण तिविहेण।वोच्छं सामाचारं समासदो आणुपुव्वीयं।।१२२।। तेलोक्कपूयणीए–त्रयाणां लोकानां भवनवासिमनुष्यदेवानां पूजनीया वन्दनीयास्त्रिलोकपूजनीयास्तान् त्रिकालग्रहणार्थमनीयेन निर्देश:। अरहंते–अर्हत: घातिचतुष्टयजेत¸न्। वंदिऊण–वन्दित्वा। तिविहेण–त्रिविधेन मनोवचनकायै:। वोच्छं–वक्ष्ये। सामाचारं–मूलगुणानुरूपमाचारं। समासदो–समासत: संक्षेपेण ‘काया:’ तस्। आणुपुव्वीयं–आनुपूर्व्या अनुक्रमेण। त्रिविधं व्याख्यानं भवति पूर्वानुपूर्व्या, पश्चादानुपूर्व्या यत्र तत्रानुपूर्व्या च। तत्र पूर्वानुपूर्व्या...