अनगारधर्मामृत ग्रंथ में आहारप्रत्याख्यान की विधि
अनगारधर्मामृत ग्रंथ में आहारप्रत्याख्यान की विधि अप्रतिपन्नोपवासस्य भिक्षोर्मध्याह्नकृत्यमाह— प्राणयात्राचिकीर्षायां प्रत्याख्यानमुपोषितम्। न वा निष्ठाप्य विधिवद्भुक्त्वा भूयः प्रतिष्ठयेत्१।।३६।। प्रतिष्ठयेत् प्रत्याख्यानमुपोषितं वा यथासामर्थ्यमात्मनि स्थापयेत्साधुः। कथम्? भूयः पुनः।किं कृत्त्वा ? भुक्त्वा भोजनं कृत्वा। किंवत ? विधिवत् शास्त्रोक्तविधानेन। किं कृत्वा ? निष्ठाप्य पूर्वदिने प्रतिपन्नं क्षमयित्वा विधिवदेव।किं तत् ? प्रत्याख्यानम्। न केवलम्, उपोषितं न वा उपवासं वा। कस्यां सत्याम्? प्राणयात्राचिकीर्षायां भोजन-करणेच्छायां…