बृहद्दीक्षाविधि:
बृहद्दीक्षाविधि: पूर्वदिने भोजनसमये भाजनतिरस्कारविधिं विधाय आहारं गृहीत्वा चैत्यालये आगच्छेत् ततो बृहत्प्रत्याख्यानप्रतिष्ठापने सिद्धयोगभक्ती पठित्वा गुरुपार्श्वे प्रत्याख्यानं सोपवासं गृहीत्वा आचार्य शान्ति-समाधिभक्ती: पठित्वा गुरो: प्रणामं कुर्यात्। अथ दीक्षादाने दीक्षादातृजन: शान्तिक-गणधरवलयपूजादिकं यथाशक्ति कारयेत्। अथ दाता तं स्नानादिकं कारयित्वा यथायोग्यालज्ररयुक्तं महामहोत्सवेन चैत्यालये समानयेत्। स देवशास्त्रगुरुपूजां विधाय वैराग्य-भावनापर: सर्वैै: सह क्षमां कृत्वा गुरोरग्रे तिष्ठेत। ततो गुरोरग्रे संघस्याग्रे च दीक्षायै यांचां कृत्वा…