व्यन्तरदेवों के जिनमंदिर
व्यन्तरदेवों के जिनमंदिर (सिद्धान्तसार दीपक से) असंख्यव्यन्तरावासस्थितान् सर्वान् जिनालयान्।व्यन्तरामरवन्द्याच्र्यान् प्रतिमाभि: सह स्तुवे।।१।। अथ पञ्चगुरुन्नत्वा विश्वकल्याणसिद्धिदान्। करिष्ये वर्णनं सिद्धये ह्यष्टधाव्यन्तरात्मनाम्।।२।। आदिमा: किन्नरादेवा: किम्पुरुषा महोरगा:। गन्धर्वाख्यास्ततो यक्षा राक्षसा भूतनिर्जरा:।।३।। पिशाचाश्च ह्यमी ज्ञेया अष्टधा व्यन्तरामरा:। अमीषां वर्णभेदादीन् पृथग्वक्ष्येऽधुनाचिदे।।४।। प्रियङ्गुफलभा: किन्नराश्च किम्पुरुषा: सिता:। महोरगा हि कृष्णाङ्गा गन्धर्वयक्षराक्षसा:।।५।। हेमप्रभास्त्रयो भूता: कृष्णवर्णा: पिशाचका:। बहुलप्रभसद्गात्रा अमीषां भेद उच्यते।।६।। रत्नप्रभाक्षिते: सन्ति खरभागे महागृहा:।…