अकृत्रिम चैत्यालयों के अर्घ्य
अकृत्रिम चैत्यालयों के अर्घ्य कृत्याकृत्रिमचारुचैत्यनिलयान् नित्यं त्रिलोकीगतान्। वंदे भावन-व्यंतरान्-द्युतिवरान् स्वर्गामरावासगान्। सद्गंधाक्षतपुष्पदामचरुवैâ: सद्दीपधूपै: फलै- र्नीराद्यैश्च यजे प्रणम्य शिरसा दुष्कर्मणां शांतये।।१।। ॐ ह्रीं कृत्रिमाकृत्रिमचैत्यालयसंबंधिजिनबिंबेभ्योऽर्घ्यं निर्वपामीति स्वाहा। वर्षेषु वर्षांतरपर्वतेषु नंदीश्वरे यानि च मंदरेषु। यावंति चैत्यायतनानि लोके सर्वाणि वंदे जिनपुंगवानां।।२।। अवनि-तल-गतानां कृत्रिमाकृत्रिमाणां, वनभवनगतानां दिव्य-वैमानिकानां। इह मनुज-कृतानां देवराजार्चितानां, जिनवर-निलयानां भावतोऽहं स्मरामि।।३।। जंबू-धातकि-पुष्करार्ध-वसुधा-क्षेत्रत्रये ये भवा:, चन्द्रांभोज-शिखंडिकण्ठ-कनकप्रावृड्घनाभाजिना:। सम्यग्ज्ञान-चरित्रलक्षणधरा दग्धाष्ट-कर्मेन्धना:। भूतानागत-वर्तमान-समये तेभ्यो जिनेभ्यो…