ईर्यापथशुद्धि
ईर्यापथशुद्धि….. नि:संगोहं जिनानां सदनमनुपमं त्रि:परीत्येत्य भक्त्या। स्थित्वा गत्वा निषद्योच्चरणपरिणतोऽन्त: शनैर्हस्तयुग्मम्।। भाले संस्थाप्य बुद्ध्या मम दुरितहरं कीर्तये शक्रवंद्यं। निंदादूरं सदाप्तं क्षयरहितममुं ज्ञानभानुं जिनेंद्रम्।।१।। श्रीमत्पवित्रमकलंकमनंतकल्पं, स्वायंभुवं सकलमंगलमादितीर्थम्। नित्योत्सवं मणिमयं निलयं जिनानां, त्रैलोक्यभूषणमहं शरणं प्रपद्ये।।२।। श्रीमत्परमगंभीरस्याद्वादामोघलांक्षनं। जीयात्त्रैलोक्यनाथस्य शासनं जिनशासनम् ।।३।। श्रीमुखालोकनादेव श्रीमुखालोकनं भवेत् । आलोकनविहीनस्य तत्सुखावाप्तय: कुत:।।४।। अद्याभवत् सफलता नयनद्वयस्य, देव! त्वदीयचरणाम्बुजवीक्षणेन। अद्य त्रिलोकतिलक! प्रतिभासते मे, संसारवारिधिरयं चुलुकप्रमाणम्…