अथ ध्वजारोहणविधानं
अथ ध्वजारोहणविधानं यद्यज्जिनौकसां पूजां कुर्वंति तत्र तत्र ते। ध्वजानारोपयन्तीन्द्रास्तस्मादिन्द्रध्वजं मतं ।।१।। बसंततिलका छन्द: साक्षादिमे जिनगृहा अकृता जिनानाम् । मुक्त्यंगनामुखनिरीक्षणदर्पणा नु।। इंद्रोऽहमेष जिनयज्ञविधौ हि साक्षात्। आरोपयामि वरकीर्तिकरान् ध्वजांश्च ।।१।। मालामृगेन्द्रकमलांबर वैनतेयमातंगगोपतिरथांगमयूरहंसा:।। एतत्सुचिन्हदशसंयुतसद्ध्वजानां, आरोपणाय पुष्पांजलिमुत्क्षिपामि ।।२।। (मंडलस्योपरि ध्वजानामुपरि च पुष्पांजलिं क्षिपेत्) मेरूणां श्रीजिनागारेष्वशीतिजिनसद्मसु । आरोहयामि सद्भक्त्या मालाचिन्हांकितान् ध्वजान् ।।३।। ॐ णमो अरहंताणं स्वस्ति भद्रं भवतु सर्वलोकस्य शांतिर्भवतु…