घटयात्रा विधि अनुष्टुप्छंदः- अथांकुरात्पंचमेऽन्हि जलयात्रामहोत्सवम्। कृत्वा भुक्त्वा दधीतोपवासादानविधिं बुधः।।1।। गद्य- तद्यथा-अथांकुरात्पंचमेऽन्हि पूर्वाण्हे दिव्यवसनभूषणमाल्यानुलेपनालंकृतोऽहं महेन्द्रः प्रतीन्द्रदातृसमन्वितो धुर्यं गजमश्वं वा समारूढः सत्पल्लवच्छन्नमुखान्, दूर्वादध्यक्षतांचितान्, कंठतटलुठत्पुष्पमालान्, फलगर्भान्, कुंभान् दृढतरं बिभ्रतीभिः पतिपुत्रवतीभिः कुलस्त्रीभिर्विमानस्य चतुर्दिक्षुशांतिशुद्ध्यभिधानहोमं विधाय छत्रचामरतौर्यत्रिकध्वजाद्यैर्विश्वं विस्मापयन् मंत्राभ्यस्तान्यवसर्षपान् शांत्यै सर्वदिक्षु क्षिपन् महाभूत्या सरस्तीरं समासाद्य तत्र पद्माकरायाघ्र्यं दत्वा शांतिविधिं निष्ठाप्य जलदेवताः प्रसाद्य पूरयित्वा जलैरास्यस्थापितश्र्यादिदेवता- कान्कुंभांस्ताभिरेव पुरंध्रीभिर्महाभूत्या चैत्यालयमानाय्य तत्र सुरक्षितांस्तान्संस्थाप्य तज्जेलन गर्भावतरणांगं…
ध्वजारोहण विधि अथ पंचमः परिच्छेदः अथातो ध्वजारोहणविधानम् ।। (अब ध्वजारोहण विधि कहते हैं – ) अनुष्टुपछंदः- अथांकुराच्चतुर्थेन्हि, ध्वजारोहणसिद्धये । विदध्याद्विधिवच्छक्रो, बृहच्छान्तिकसंविधिम् ।। 1 ।। ध्वजप्रतिष्ठां निष्ठाप्य, भूत्या पुरि विहार्य च । ध्वजमारोपयेद्दंडे, सुलग्ने विधिवत्सुधीः ।। 2।। बृहच्छांतिविधेः सर्वं, लक्षणं ध्वजदंडयोः । तत्प्रतिष्ठाक्रमश्चूर्णौ, प्रयोगे वर्णयिष्यते ।। 3 ।। प्रायशोऽत्र मया तत्तल्लक्षणं विध्यनुक्रमः । प्रयोगे वर्णयिष्येते, काले…