मानस्तम्भों के मूलभाग में जिनप्रतिमाएँ
मानस्तम्भों के मूलभाग में जिनप्रतिमाएँ हिरण्मयीर्जिनेन्द्राच्र्यास्तेषां बुध्नप्रतिष्ठिताः। देवेन्द्राः पूजयन्ति स्म क्षीरोदाम्भोऽभिषेचनैः१।।९८।। नित्यातोद्य महावाद्यैर्नित्यसंगीतमङ्गलैः। नृत्तैर्नित्यप्रवृत्तैश्च मानस्तम्भाः स्म भान्त्यमी।।९९।। पीठिका जगतीमध्ये तन्मध्ये च त्रिमेखलम् । पीठं तन्मूध्र्नि सद्बुध्ना मानस्तम्भाः प्रतिष्ठिताः।।१००।। हिरण्मयाङ्गाः प्रोत्तुङ्गा मूध्र्निच्छत्रत्रयाज्र्तिाः। सुरेन्द्रनिर्मितत्वाच्च प्राप्तेन्द्र ध्वजरूढिकाः।।१०१।। मानस्तम्भान्महामान योगात्त्रैलोक्यमाननात् । अन्वर्थसञ्ज्ञया तज्ज्ञैर्मानस्तम्भाः प्रकीर्तिताः।।१०२।। स्तम्भपर्यन्तभूभागमलंचव्रु सहोत्पलाः। प्रसन्नसलिला वाप्यो भव्यानामिव शुद्धयः।।१०३।। वाप्यस्ता रेजिरे पुल्लकमलोत्पलसंपदः। भक्त्या जैनीं श्रियं द्रष्टुं भुवेवोद्घाटिता दृशः।।१०४।।…