एकोनचत्वारिंशः सर्गः
एकोनचत्वारिंशः सर्गः सकलश्रुतमत्यवधिप्रविकासिविशुद्ध विलासनिनिद्र विशिष्ट- विलोचनदृष्टिविदृष्टसमस्तचराचरतत्त्वजगस्त्रितय। त्रितयात्मकदर्शनबोधचरित्रविनिर्मलरत्नविराजितपूर्व- भवोग्रतपोयुतषोडशकारणसंचिततीर्थकरप्रकृते।।१।। प्रकृतेः स्थितितोऽनुभवाच्च विशिष्टतराद्भुतपुण्यमहोदय- मारुतवेगविचालितदेवनिकायकुलाचलसेवितपादयुग। युगमुख्य मुखाम्बुजदर्शनतृप्तिविवर्जितभव्यमधुव्रतधीर- तरस्तवनध्वनिवृंहितदुन्दुभिनादनिवेदितशुद्धयशः।।२।। यशसा धवलीकृतजन्मपवित्रितभारतवर्ष महाहरिवंश- महोदयशैलशिखामणिबालदिवाकरदीप्तिजितार्कवपुः। वपुषाधिककान्तिभृताजितपूर्णशशाज्र्, विभो! हरिनीलमणि- द्युतिमण्डलमण्डितदिङ्मुखमण्डल नेमिजिनेन्द्र! नमो भवते।।३।। भवतेह भुवां त्रितये भवता गुरुणा परमेश्वर विश्वजनीन महेच्छधिया प्रतिपादितमप्रतिमप्रतिमारहितम्। हितमुक्तिपथं प्रथितं विधिवत् प्रतिपद्य विधाय तपो विविधं विधिना प्रविधूय कुकर्ममलं सकलं भुवि भव्यजनः प्रणतः।।४।। प्रणतप्रिय! संप्रति जन्मजरामरणमयभीममहाभवदुःख- समुद्रमपारमतीत्य समेष्यति मोक्षमशेषजगच्छिखरम्।…