20. श्री रामचन्द्रजी ने कुंथलगिरि पर अनेक जिनमंदिर बनवाये
श्री रामचन्द्रजी ने कुंथलगिरि पर अनेक जिनमंदिर बनवाये तत्र वंशगिरौ राजन् रामेण जगदिन्दुना। निर्मापितानि चैत्यानि जिनेशानां सहस्रशः।।२७।। महावष्टम्भसुस्तम्भा युक्तविस्तारतुङ्गताः। गवाक्षहम्र्यवलभीप्रभृत्याकारशोभिताः।।२८।। सतोरणमहाद्वाराः सशालाः परिखान्विताः। सितचारुपताकाढ्या बृहद्घण्टारवाचिताः।।२९।। मृदङ्गवंशमुरजसंगीतोत्तमनिस्वनाः। झर्झरैरानवै शङ्खभेरीभिश्च महारवाः।।३०।। सततारब्धनिःशेषरम्यवस्तुमहोत्सवाः। विरेजुस्तत्र रामीया जिनप्रासादपङ्क्तयः।।३१।। रेजिरे प्रतिमास्तत्र सर्वलोकनमस्कृताः। पञ्चवर्णा जिनेन्द्राणां सर्वलक्षणभूषिताः।।३२।। उपजातिवृत्तम् एषऽपि तुङ्गः परमो महीध्रः श्रीमन्नितम्बो बहुधानुसानुः। विलम्पतीभिः कुकुभां समूहं…