06. भावदेवभवदेवयो: पुनर्मनुष्यजन्मलाभ:
भावदेवभवदेवयो: पुनर्मनुष्यजन्मलाभ: संस्कृत भाषा में अथ भावदेवभवदेवचरदेवौ तृतीयस्वर्गस्य सप्तसागर- पर्यंतं आयु: समाप्तिमानीतवन्तौ। तन्मध्ये यदा षण्मासमायुरवशिष्टं तदानीं तत्र कल्पवृक्षस्य दीप्तिमंदतादिनानानिमित्तेन स्वर्गात्पतनं अवबुद्ध्य तौ शोकातुरौ संजातौ। तत्समये अन्ये देवादय आगत्य तौ समवबोधयन्। ततो धर्मबुद्ध्या उभौ अपि देवौ जिनमंदिरे गत्वा भावविशुद्ध्या जिनपूजां कृत्वातिष्ठतां अनंतरं अंतकालमासन्नं ज्ञात्वा कल्पवृक्षस्याध: उपविश्य समाहितमनसौ प्रतिमायोगं गृहीत्वा आत्मध्याने निमग्नौ अजायतां, महामंत्रं स्मारं स्मारं प्राणान्…