69. अग्नि में हवन के प्रमाण एवं सप्तमप्रतिमाधारी ब्रह्मचारी भी हवन करें
अग्नि में हवन के प्रमाण एवं सप्तमप्रतिमाधारी ब्रह्मचारी भी हवन करें तदाकर्णेनमात्रेण सत्वरः सर्वसंगतः। चक्रवर्ती तमभ्येत्य त्रिःपरीत्य कृतस्तुतिः।।३३६।। महामहमहापूजां भक्त्या निवर्तयन्स्वयम्। चतुर्दश दिनान्येवं भगवन्तमसेवत।।३३७।। माघकृष्णचतुर्दश्यां भगवान् भास्करोदये। मुहूर्तेऽभिजिति प्राप्तपल्यज्रे मुनिभिः समम्।।३३८।। प्राग्दिङ्मुुखस्तृतीयेन शुक्लध्यानेन रूद्ववान्। योगत्रितयमन्येन ध्यानेनघातिकर्मणाम्।।३३९।। पञ्चह्वस्वरोञ्चारणप्रमाणेन संक्षयम्। कालेन विदधत्प्रान्तगुणस्थानमष्टितिः।।३४०।। शरीरत्रितयापाये प्राप्य सिद्धवपर्ययम्। निजाष्टागुणसंंपूर्णः क्षणाप्तनुवातकः।।३४१।। नित्यो निरञ्जनःकिंचिदूनो देहादमूर्तिभाक्। स्थितःस्वसुखसाद्भृतःपश्यन्विश्चमनारतम्।।३४२।। तदागत्य सुराः सर्वे प्रान्तपूजाचिकीर्षया। पवित्रं परमं…