समवसरण में उपवनभूमि में चैत्यवृक्षों में जिनप्रतिमायें (आदिपुराण से)
समवसरण में उपवनभूमि में चैत्यवृक्षों में जिनप्रतिमायें (आदिपुराण से) बभासे वनमाशोकं शोकापनुदमङ्गिनाम्। रागं वमदिवात्मीयमारत्तै पुष्पपल्लवैः१।।१८०।। पर्णानि सप्त विभ्राणं वनं सप्तच्छदं बभौ। सप्तस्था नानि बाभर्तुर्दर्शयत्प्रति पर्व यत्।।१८१।। चाम्पकं वनमत्राभात् सुमनोभरभूषणम्। वने दीपाङ्गवृक्षाणां विभुं भक्तुमिवागताम्।।१८२।। कम्रमाम्रवनं रेजे कलकण्ठीकलस्वनैः। स्तुवानमिव भक्त्यैनमीशानं पुण्यशासनम्।।१८३।। अशोकवनमध्येऽभूदशोकानोकहो महान्। हैमं त्रिमेखलं पीठं समुत्तुङ्गमधिष्ठितः।।१८४।। चतुर्गोपुरसंबद्धत्रिसालपरिवेष्टितः । छत्रचामरभृङ्गारकलशाद्यैरुपस्कृतः ।।१८५।। जम्बूद्वीपस्थलीमध्ये भाति जम्बूद्रुमो यथा। तथा वनस्थलीमध्ये…