श्री वीरसागराष्टकम्
श्री वीरसागराष्टकम् यस्य प्रसन्नमुखमण्डलमीक्षमाणा। भव्या भवन्ति सततं भवतो विभीता:। त्यक्त्वा परिग्रहचयं मुनयो भवन्त:। कुर्वन्ति दुर्लभतरं स्वहितं समन्तात्।।१।। यस्यास्यनिर्गतवचोऽमृतपानतृप्तो विज्ञो न जातु रमते सुरभूमिमध्ये। यस्यांघ्रियुग्ममभिनम्य नरा: कदाचिन्। नैवानमन्ति कुगुरुन् पतितान् भवाब्धौ।।२।। यदूदीक्षिता मुनिवरा: सुदृढां व्रतानां। संपालने विशदवृत्त युता लसन्ति। आर्याश्च वृत्तपरिपालनपूर्णदक्षा:। सन्त्यत्र गौरवयुता: सुनुता मर्हिद्ध।।३।। यत्सन्निधौ भुवि बभूव महातपस्वी। श्री चन्द्रसागर मुनि: प्रवर:…