योगिभक्ति- संस्कृत
योगिभक्ति दुवई छंद- जातिजरोरुरोगमरणातुरशोकसहस्रदीपिताः । दुःसहनरकपतनसन्त्रस्तधियः प्रतिबुुद्धचेतसः।। जीवितमंबुबिंदुचपलं तडिदभ्रसमा विभूतयः। सकलमिदं विचिन्त्य मुनयः प्रशमाय वनान्तमाश्रिताः।।१।। भद्रिका छंद व्रतसमितिगुप्तसंयुताः, शमसुखमाधाय मनसि वीतमोहाः। ध्यानाध्ययनवशंगतास्र, विशुद्धये कर्मणां तपश्चरन्ति।।२।। दिनकरकिरणनिकरसंतप्तशिलानिचयेषु निःस्पृहाः। मलपटलावलिप्ततनवः शिथिलीकृतकर्मबंधनाः।। व्यपगतमदनदर्परतिदोषकषायविरक्तमत्सराः। गिरिशिखरेषु चंडकिरणाभिमुखस्थितयो दिगंबराः।।३।। सज्ज्ञानामृतपायिभिः क्षान्तिपयः सिच्यमानपुण्यकायैः। धृतसंतोषच्छत्रवै, तापस्तीव्रोऽपि सह्यते मुनीन्द्रैः।।४।। शिखिगलकज्जलालिमलिनैर्विबुधाधिपचापचित्रितैः। भीमरवैर्विसृष्टचण्डाशनिशीतलवायुवृष्टिभिः।। गगनतलं विलोक्य जलदैः स्थगितं सहसा तपोधनाः। पुनरपि तरुतलेषु विषमासु निशासु विशंकमासते।।५।। जलधाराशरताडिता न...