7.01 अथ षडावश्यकाधिकार:
अथ षडावश्यकाधिकार: प्रायेण जायते पुंसां वीतरागस्य दर्शनम्।तद्दर्शनविरक्तानां भवेज्जन्मापि निष्फलम्।। षडावश्यकक्रियं मूलगुणान्तर्गतमधिकारं प्रपंचेन विवृण्वन् प्रथमतरं तावन्नमस्कारमाह- काऊण णमोक्कारं अरहंताणं तहेव सिद्धाणं।आइरियउवज्भâाए लोगम्मि य सव्वसाहूणं।।५०२।। कृत्वा नमस्कारं, केषामर्हतां तथैव सिद्धानां, आचार्योपाध्यायानां च लोके च सर्वसाधूनां। लोकशब्द: प्रत्येकमभिसम्बध्यते। कारशब्दो येन तेन षष्ठी संजाताऽन्यथा पुनश्चतुर्थी भवति। अर्हत्सिद्धाचार्योपाध्यायसाधुभ्यो लोकेऽस्मिन्नमस्कृत्वा आवश्यकनिर्युिंक्त वक्ष्ये इति सम्बन्ध: सापेक्षत्वात् क्त्वान्तप्रयोगस्येति।।५०२।। नमस्कारपूर्वकं प्रयोजनमाह- आवासयणिज्जुत्ती वोच्छामि जहाकमं...