जन्माभिषेक कल्याणक
जन्माभिषेक कल्याणक ( प्रतिष्ठातिलक के आधार से ) अंकुरार्पणतः पश्चात्सप्तमे दिवसे दिवा । जन्माभिषेककल्याणपूजां कुर्याद्यथाक्रमम् ।। 1 ।। मूलवेद्यां समाराध्य पूर्ववद्यागमंडलम् । वेदीं गत्वोत्तरां तत्र वक्ष्यमाणविधानतः ।। 2 ।। पुष्पांजल्यादिकलशस्थापनांतविधिं चरेत् । ततः स्नपनवेद्यां तु पंचमंडलवर्तनम् ।। 3 ।। तत्र स्नपनपीठस्य स्थापनं तद्विधानतः । दर्भशय्यास्थिते बिंबे ततः शक्रैर्विधीयते ।। 4 ।। जिनजन्मोत्सवारोपो वस्त्रापनयनं ततः ।…