श्री पंचमेरुभक्ति: (संस्कृत)
श्री पंचमेरुभक्ति: उपजाति छंद श्रीपंचमेरुस्थजिनेन्द्रगेहान्, प्रणम्य बिंबानि च वीरनाथं। तत्राभिषेकाप्तजिनाधिपांश्च, तान् पंचमेरून् किल संस्तवीमि।।१।। पृथ्वी छंद सुदर्शनगिरिं स्तुवे विजयमेर्वचलमंदरान्,सुविद्युदनुमालिभूमिभृदनाद्यनंतात्मकान् । सुरेन्द्रविहितातिशायि-जिनजन्मकालोत्सवे, सुधर्मवरतीर्थकृत्-स्नपनवैश्च पूज्यानिमान् ।।२।। सुदर्शनमहागिरेर्भुवि सुभद्रशालं वनं, ह्यकृत्रिमजिनालयाः सुरनुताश्चतुर्दिक्षु च। सुरत्नमयमूर्तयो जिनवरस्य पुण्यप्रदा, नमोस्तु सततं भवाब्धितरणाय ताभ्यो मुदा।।३।। भुवः शतक पंचयोजनगतं वनं नंदनं, विचित्रजलयंत्रभृज्जलभृतः सुवाप्योऽत्र च। त्रिशालपरिवेष्टिताः कनक-रत्न-मालाध्वजैः,सुवर्णघटधूपकुंभ-जिनचैत्यवृक्षैर्युताः।।४।। अनंत-भव-संचितां सकल-कर्म-राशिं क्षणात्,दहंति भविकस्य चैत्यनिलयाश्चतुर्दिग्भवाः। सुरेन्द्र-मुनि-वृंद-चक्रि-धरणेन्द्र-कृद्वंदनाः, विभांति...