चारित्रभक्ति- संस्कृत
चारित्र भक्ति येनेन्द्रान्भुवनत्रयस्य विलसत्केयूरहारांगदान्। भास्वन्मौलिमणिप्रभाप्रविसरोत्तुङ्गोत्तमाङ्गान्नतान् ।। स्वेषां पादपयोरुहेषु मुनयश्चव्रु प्रकामं सदा। वंदे पंचतयं तमद्य निगदन्नाचारमभ्यर्चितम् ।।१।। अर्थव्यंजनतद्द्वयाविकलताकालोपधाप्रश्रयाः। स्वाचार्याद्यनपन्हवो बहुमतिश्चेत्यष्टधा व्याहृतम्।। श्रीमज्ज्ञातिकुलेन्दुना भगवता तीर्थस्य कत्र्रांऽजसा। ज्ञानाचारमहं त्रिधा प्रणिपताम्युद्धूतये कर्मणाम् ।।२।। शंकादृष्टिविमोहकांक्षणविधिव्यावृत्तिसन्नद्धतां। वात्सल्यं विचिकित्सनादुपरतिं धर्मोपबृंहक्रियाम् ।। शक्त्या शासनदीपनं हितपथाद्भ्रष्टस्य संस्थापनम् । वंदे दर्शनगोचरं सुचरितं मूध्र्ना नमन्नादरात् ।।३।। एकान्ते शयनोपवेशनकृतिः संतापनं तानवम् । संख्यावृत्तिनिबन्धनामनशनं विष्वाणमद्र्धोदरम् ।। त्यागं चेन्द्रियदन्तिनो...