वीरभक्ति
वीरभक्ति यः सर्वाणि चराचराणि विधिवद्-द्रव्याणि तेषां गुणान्। पर्यायानपि भूतभाविभवतः, सर्वान् सदा सर्वदा। जानीते युगपत् प्रतिक्षणमतः, सर्वज्ञ इत्युच्यते सर्वज्ञाय जिनेश्वराय महते, वीराय तस्मै नमः।।१।। वीरः सर्वसुरासुरेन्द्रमहितो, वीरं बुधाः संश्रिताः वीरेणाभिहतः स्वकर्मनिचयो, वीराय भक्त्या नमः। वीरात्तीर्थमिदं प्रवृत्तमतुलं, वीरस्य वीरं तपो वीरे श्री द्युति-कान्ति-कीर्ति-धृतयो, हे वीर! भद्रं त्वयि।।२।। ये वीरपादौ प्रणमन्ति नित्यं, ध्यानस्थिताः संयमयोगयुक्ताः। ते वीतशोका हि भवन्ति...