शांतिभक्ति
शांतिभक्ति न स्नेहाच्छरणं प्रयान्ति भगवन् ! पादद्वयं ते प्रजाः। हेतुस्तत्र विचित्रदुःखनिचयः, संसारघोरार्णवः।। अत्यन्तस्पुरदुग्ररश्मिनिकर-व्याकीर्णभूमण्डलो। ग्रैैष्मः कारयतीन्दुपादसलिल-च्छायानुरागं रविः।।१।। क्रुद्धाशीर्विषदष्टदुर्जयविषज्वालावलीविक्रमो। विद्याभेषजमन्त्रतोयहवनैर्याति प्रशांतिं यथा।। तद्वत्ते चरणारुणांबुजयुग-स्तोत्रोन्मुखानां नृणाम्। विघ्नाः कायविनायकाश्च सहसा, शाम्यन्त्यहो! विस्मयः।।२।। संतप्तोत्तमकांचनक्षितिधरश्रीस्पद्र्धिगौरद्युते। पुंसां त्वच्चरणप्रणामकरणात्, पीडाः प्रयान्ति क्षयं।। उद्यद्भास्करविस्फुरत्करशतव्याघातनिष्कासिता। नानादेहिविलोचनद्युतिहरा, शीघ्रं यथा शर्वरी।।३।। त्रैलोक्येश्वरभंगलब्धविजयादत्यन्तरौद्रात्मकान् । नानाजन्मशतान्तरेषु पुरतो, जीवस्य संसारिणः।। को वा प्रस्खलतीह केन विधिना, कालोग्रदावानला- न्नस्याच्चेत्तव पादपद्मयुगलस्तुत्यापगावारणम्।।४।। लोकालोकनिरन्तरप्रविततज्ञानैकमूर्ते! विभो!।...