2.01 बृहत्प्रत्याख्यानसंस्तरस्तवाधिकार:
बृहत्प्रत्याख्यानसंस्तरस्तवाधिकार: प्रत्याख्यान संस्तरस्तवप्रतिपत्तृभ्यां२ सहाभेदं कृत्वात्मन: ग्रंथकर्ता प्रत्याख्यानसंस्तरस्तवनामधेयद्बितीयाधिकारार्थमाह। अथवा षट्काला यतीनां भवन्ति तत्रात्मसंस्कारसल्लेखनोत्तमार्थकालास्त्रय: आराधनायां कथ्यते। शेषा दीक्षाशिक्षागणपोषण-काला आचारे, तत्राद्येषु त्रिषुकालेषु यद्युपस्थितं मरणं तत्रैवंभूतं परिणामं विदधेऽहमित्यत आह- सव्वदुक्खप्पहीणाणं सिद्धाणं अरहदो णमो।सद्दहे जिणपण्णत्तं पच्चक्खामि य पावयं।।३७।। सव्वदुक्खप्पहीणाणं-सर्वाणि च तानि दु:खानि च सर्वदु:खानि समस्तद्वन्द्वानि तै: प्रहीणा रहिता:। अथवा सर्वाणि दु:खानि प्रहीणानि येषां ते सर्वदु:खप्रहीणास्तेभ्य:। सिद्धाणं-सिद्धेभ्य: सम्यक्त्वाद्यष्टगुणैश्वर्येभ्य:। अरहदो-अर्हद्भ्यश्च नवकेवल-लब्धिप्राप्तेभ्यश्च चशब्दोऽनुक्तोऽपि...