जम्बूद्वीप के परकोटे के चारों द्वारों के अग्रभाग में जिनप्रतिमायें हैं
जम्बूद्वीप के परकोटे के चारों द्वारों के अग्रभाग में जिनप्रतिमायें हैं तन्मध्ये मेरुनाभिर्वृत्तो योजनशतसहस्रविष्कम्भो जम्बूद्वीप:१।।९।। तेषां द्वीपसमुद्राणां मध्यस्तन्मध्य: तस्मिन् तन्मध्ये सर्वद्वीपसमुद्राणां मध्यप्रदेशे जम्बूद्वीपो वर्तत इत्यर्थ:। कथम्भूतो जम्बूद्वीप: ? मेरुनाभि:, मेरु: सुदर्शननामा कनक पर्वत: एकसहस्रयोजनभूमिमध्ये स्थित: नवनवतिसहस्रयोजनबहिरुन्नत:। श्रीभद्रशालवनादुपरि पञ्चशतयोजनलभ्यनन्दनवन:, नन्दनवनात्त्रिषष्टियोजनसहस्रं सम्प्राप्य सौमनसवन:।सौमनसवनात् साद्र्धपञ्चिंत्रशत्सहस्रयोजनगम्यपाण्डुकवन:।चत्वारिंशद्योजनोन्नतचूलिक:, सा चूलिका साद्र्धपञ्चिंत्रशत्सहस्रयोजनमध्य एव गणनीया।स एवंविधो मेरुनाभिर्मध्यप्रदेशो यस्य जम्बूद्वीपस्य मेरुनाभि:। पुनरपि कथम्भूतो जम्बूद्वीप:…