04. वेदिका निर्माण विधि
अथ चतुर्थः परिच्छेदः अथ मण्डपविधानं वेदीनिर्वर्तनं च ।। अनुष्टुप छंदः- अंकुरार्पणतः पश्चात् द्वितीयेऽहनि शोभने । कृत्वा वास्तुबलिं सर्व-मंडपानि प्रसाधयेत् ।। 1 ।। नांदीमंगलतः पूर्वं, दिवसेषु कियत्स्वपि। यष्ट्राहूय च सम्मान्य, प्रार्थितो याजकोत्तमः ।। 2 ।। सज्जयित्वोपकरणं, याजको यज्ञसिद्धये । सम्यक्शांतिविधिं कृत्वा, कारयेन्मंडपादिकम् ।। 3 ।। खात्वा विशोध्य संपूर्य, समीकृत्य पवित्रिते । भूभागे मंडपं कार्यं, पूगक्षीरद्रुमादिभिः ।।...